|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.60. अध्यायः 060
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरं प्रति दाने पात्राणां लक्षणादिकथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम्।
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाऽप्यलिङ्गिनम्॥ 13-60-1(83806)
भीष्म उवाच। 13-60-2x(6965)
स्ववृत्तिमभिपन्नाय लिङ्गिने चेतराय च।
देयमाहुर्महाराज उभावेतौ तपस्विनौ॥ 13-60-2(83807)
युधिष्ठिर उवाच। 13-60-3x(6966)
श्रद्धया परयाऽपूतो यः प्रयच्छेद्द्विजातये।
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह॥ 13-60-3(83808)
भीष्म उवाच। 13-60-4x(6967)
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः।
पूतो भवति सर्वत्र किमुत त्वं महाद्युते॥ 13-60-4(83809)
युधिष्ठिर उवाच। 13-60-5x(6968)
न ब्राह्मणं परिक्षेत दैवेषु सततं नरः।
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः॥ 13-60-5(83810)
भीष्म उवाच। 13-60-6x(6969)
न ब्राह्मणः साधयते हव्यं दैवात्प्रसिद्ध्यति।
देवप्रसादादिज्यन्ते यजमानैर्न संशयः॥ 13-60-6(83811)
ब्राह्मणान्भरतश्रेष्ठ सततं ब्रह्मवादिनः।
मार्कण्डेयः पुरा प्राह इति लोकेषु बुद्धिमान्।
`ब्राह्मणाः पात्रभूताश्च शुद्धा नैवं पितृष्विह॥ 13-60-7(83812)
युधिष्ठिर उवाच। 13-60-8x(6970)
अपर्वोऽप्यथवा विद्वान्सम्बन्धी वा यथा भवेत्।
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः॥ 13-60-8(83813)
भीष्म उवाच। 13-60-9x(6971)
कुलीनः कर्मकृद्वैद्यस्तथैवाप्यनृशंस्यवान्।
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ये त्रयः॥ 13-60-9(83814)
तत्रेमं शृणु मे पार्थ चतुर्णां तेजसां मतम्।
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि॥ 13-60-10(83815)
पृथिव्युवाच। 13-60-11(83816)
यथा महार्णवे क्षिप्तः क्षिप्रं नेष्टुर्विनश्यति।
तथा दुश्चरितं सर्वं त्रयीनित्ये निमज्जति॥ 13-60-11(83817)
काश्यप उवाच। 13-60-12x(6972)
सर्वे च वेदाः सह षङ्भिरङ्गैः
साङ्ख्यं पुराणं च कुले च जन्म।
नैतानि सर्वाणि गतिर्भवन्ति
शीलव्यपेतस्य नृप द्विजस्य॥ 13-60-12(83818)
अग्निरुवाच। 13-60-13x(6973)
अधीयानः पण्डितम्मन्यमानो
यो विद्यया हन्ति यशः परेषाम्।
ब्रह्मन्स तेन लभते ब्रह्मवध्यां
लोकास्तस्य ह्यन्तवन्तो भवन्ति॥ 13-60-13(83819)
मार्कण्डेय उवाच। 13-60-14x(6974)
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
नाभिजानामि यज्ञं तु सत्यस्यार्धमवाप्नुयात्॥ 13-60-14(83820)
भीष्म उवाच। 13-60-15x(6975)
इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः।
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः॥ 13-60-15(83821)
युधिष्ठिर उवाच। 13-60-16x(6976)
यदि ते ब्राह्मणा लोके व्रतिनो भुञ्जते हविः।
दत्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत्॥ 13-60-16(83822)
भीष्म उवाच। 13-60-17x(6977)
आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः।
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते॥ 13-60-17(83823)
युधिष्ठिर उवाच। 13-60-18x(6978)
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः।
किं निमित्तं भवेदत्र तन्मे ब्रूहि पितामह॥ 13-60-18(83824)
भीष्म उवाच। 13-60-19x(6979)
अहिंसा सत्यमकोध आनृशंस्यं दमस्तथा।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्॥ 13-60-19(83825)
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम्।
अनाचरन्तस्तद्धर्म सङ्करेऽभिरता प्रभो॥ 13-60-20(83826)
तेभ्यो हिरण्यं रत्नं वा गामश्वं वा ददाति यः।
दशवर्षाणि विष्ठां स भुङ्क्ते निरयमास्थितः॥ 13-60-21(83827)
धनेन पुल्कसानां च तथैवान्तेवसायिनाम्।
कृतं कर्माकृतं वाऽपि रागमोहेन जल्पताम्॥ 13-60-22(83828)
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे।
न ददन्तीह राजेन्द्र ते लोकान्भुञ्जतेऽशुभान्॥ 13-60-23(83829)
युधिष्ठिर उवाच। 13-60-24x(6980)
किं परं ब्रह्मचर्यं च किं परं धर्मलक्षणम्।
किञ्च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह॥ 13-60-24(83830)
भीष्म उवाच। 13-60-25x(6981)
ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम्।
मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम्॥ 13-60-25(83831)
युधिष्ठिर उवाच। 13-60-26x(6982)
कस्मिन्काले चरेद्धर्म कस्मिन्कालेऽर्थमाचरेत्।
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह॥ 13-60-26(83832)
भीष्म उवाच। 13-60-27x(6983)
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम्।
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम्॥ 13-60-27(83833)
ब्राह्मणांश्चैव मन्येत गुरूंश्चाप्यभिपूजयेत्।
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः॥ 13-60-28(83834)
अधिकारे यदनृतं यच्च राजसु पैशुनम्।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया॥ 13-60-29(83835)
प्रहरेन्न नरेन्द्रेषु न हन्याद्गां तथैव च।
भ्रूणहत्यासमं चैतदुभयं ये निषेधते॥ 13-60-30(83836)
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत्।
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया॥ 13-60-31(83837)
युधिष्ठिर उवाच। 13-60-32x(6984)
कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम्।
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह॥ 13-60-32(83838)
भीष्म उवाच। 13-60-33x(6985)
अक्रोधना धर्मपराः सत्यनित्या दमे रताः।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्॥ 13-60-33(83839)
अमानिनः सर्वसहा दृढार्था विजितेन्द्रियाः।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम्॥ 13-60-34(83840)
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः।
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम्॥ 13-60-35(83841)
साङ्गांश्च चतुरो वेदानधीते यो द्विजर्षभः।
षड्भ्यः प्रवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः॥ 13-60-36(83842)
ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम्।
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः॥ 13-60-37(83843)
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः।
तारयेत कुलं सर्वमेकोऽपीह द्विजर्षभः।
`तृप्ते तृप्ताः सर्वदेवाः पितरो मुनयोपि च॥' 13-60-38(83844)
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत्।
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति॥ 13-60-39(83845)
तारयेत कुलं सर्वमेकोपि ह द्विजोत्तमः।
किमङ्ग पुनरेवैते तस्मात्पात्रं समाचरेत्॥ 13-60-40(83846)
निशाम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम्।
दूरादानाय्य सत्कृत्य सर्वतश्चापि पूजयेत्॥ ॥ 13-60-41(83847)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षष्टितमोऽध्यायः॥ 60 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-60-1 ब्राह्मणं ब्रह्मविदम्। लिङ्गिनं ब्रह्मचारिणं संन्यासिनं च दण्डादिलिङ्गवन्तम्॥ 7-60-3 अपूतोपि परया श्रद्धयां यदि प्रयच्छति तर्हि तस्य दातुरपूतत्वप्रयुक्तः को दोषः स्यात्तं वद॥ 7-60-4 श्रद्धैवास्य पूतत्वं करोतीत्यर्थः॥ 7-60-5 श्रद्धैव पूतत्वकर्त्री चेत् कव्ये पात्रपरीक्षा न विधेया स्यादित्याशयः॥ 7-60-6 हव्यं दैवं कर्म सिध्यति फलदं भवति नतु ब्राह्मणगुणादिति भावः। इज्यन्ते देवा इति शेषः। दैवं कर्म देवानुग्रहादेव पूर्णं भवति। श्रद्धामात्रप्रियत्वाद्देवानामिति भावः॥ 7-60-7 पित्र्यं तु कर्म ब्राह्मणानुग्रहादेव पूर्णं भवतीति तत्रानुग्रहकर्तरि तपोबलमावश्यकमित्याशयेनाह ब्राह्मणानिति॥ 7-60-9 त्रयः अपूर्वसम्बन्धितपस्विनः कुलीनत्वादिगुणसप्तकयुक्ता एव पात्रत्वं भजन्ते परिशेषात्॥ 7-60-10 तेजसां तेजस्विनां सर्वज्ञानामिति यावत्॥ 7-60-11 नेष्टुः पांसुपिण्डः लोष्ठो विनश्यतीति ध. पाठः॥ 7-60-15 भार्गवः मार्कण्डेयः॥ 7-60-16 व्रतिनः ब्रह्मचारिणः। तदीयव्रतनाशात्स्वीयं श्राद्धं दुष्यति नवेति प्रश्नः॥ 7-60-17 आदिष्टं द्वादशवर्षाणि ब्रह्मचर्यं चरेति गुर्वादेशस्तद्वन्तः। भोक्तुरेव व्रतं लुप्यते। नतु दाता प्रत्यवैति॥ 7-60-18 अन्तो निष्ठा। अनेकान्तं अनेकफलाकारमित्यर्थः। पात्रगुणानामनन्तत्वात्के गुणा नियमेन पात्रताया निमित्तं तानेव संक्षेपेण ब्रूहीति प्रश्नार्थः॥ 7-60-22 मेदानां पुल्कसां चेति झ. पाठः। तत्र मेदादीनां स विष्ठां भुङ्क्ते इति सम्बन्धः। मेदा गोमहिष्यादीनां मृतानां मांसमश्नन्तः। पुल्कसा ये ब्राह्मणादीनपि स्वभावादेव हिंसन्ति। अन्तेवसायिनश्चर्मकारादयः। कृतमकृतं वा परकीयं पापं कर्म॥ 7-60-24 परं श्रेष्ठम्॥ 7-60-27 काल्यं पूर्वाह्णे॥ 7-60-39 न शोचति प्रतिपादयन्॥ 7-60-40 द्विजोत्तमः निर्दोषः। एते पूर्वोक्ता गुणाश्च तत्र यदि लभ्यन्ते तर्हि तारयेतेति किमु॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|